हृद्

सुधाव्याख्या

हृदयस्य ‘पदन्नस्–’ (६.१.६३) इति हृदादेशः । प्रभृतिग्रहणस्य प्रकारार्थत्वात्क्वचित्स्वादावपि । हरतेः क्विप् (३.२.१७८) । तुक् (६.१.७१) । व्यत्ययेन तस्य द इत्यन्ये । (‘हृत् क्लीबं वुक्कचित्तयोः’)