आरा

सुधाव्याख्या

- आरेति । आ इयर्ति, ऋच्छति वा । ‘ऋ गतौ' (जु०, भ्वा० प० अ०) । अच् (३.१.१३४) । आर्यते वा । भिदादौ (३.३.१०४) ‘आरा शस्त्र्याम्' इति पाठात् साधुः । (‘आरा चर्मप्रभेदिन्यां पुंसि भौमशनैश्चरे' इति मेदिनी ) ॥