पाषाणदारणः

सुधाव्याख्या

- पाषाणोदार्यतेऽनेन । ‘दॄ विदारणे' (क्र्या० प० से०) । ण्यन्तः ल्युट् (३.३.११) ॥


प्रक्रिया

धातुः -


दॄ विदारणे
पाषाण + दॄ + णिच् - हेतुमति च 3.1.26
पाषाण + दॄ + इ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाषाण + दार् + इ - अचो ञ्णिति 7.2.115
पाषाण + दार् + इ + ल्युट् - करणाधिकरणयोश्च 3.3.117
पाषाण + दार् + ल्युट् - णेरनिटि 6.4.51
पाषाण + दार् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पाषाण + दार् + अन - युवोरनाकौ 7.1.1
पाषाणदारणः - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2