परास्कन्दी

सुधाव्याख्या

- परान् आस्कन्तुं शीलमस्य । ‘स्कन्दिर् गत्यादौ’ (भ्वा० प० अ०) । ‘सुपि-’ (३.२.७८) इति णिनिः ॥


प्रक्रिया

धातुः -


स्कन्दिर् गत्यादौ
स्कन्द् – इर इत्संज्ञा वाच्या ।
परा + स्कन्द् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78
परा + स्कन्द् + इन् - उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7, तस्य लोपः 1.3.9
परास्कन्दिन् (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
परास्कन्दीन् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
परास्कन्दी - नलोपः प्रातिपदिकान्तस्य 8.2.7