लोप्त्रम्

सुधाव्याख्या

- लविति । लुप्यते । ‘लुप्लृ छेदने' (तु० उ० से०) । ष्टन् (उ० ४.१.१५९) । लूञः ष्ट्रनि ‘लोत्रम्’ अपि । ‘लोत्रमश्रुणि चोरिते' इति विश्वः ॥


प्रक्रिया

धातुः -


लुप्लृँ छेदने
लुप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लुप् + ष्ट्रन् – उणादिसूत्रम् । ४.१.१५९
लुप् + त्र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, षः प्रत्ययस्य 1.3.6, निमित्तापाये नैमित्तिकस्याप्यपायः ।
लोप्त्र - पुगन्तलघूपधस्य च 7.3.86
लोप्त्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लोप्त्र + अम् - अतोऽम् 7.1.24
लोप्त्रम् - अमि पूर्वः 6.1.107