कुलकः

सुधाव्याख्या

- क्विति । कोलति । ‘कुल संस्त्याने बन्धुषु च’ (भ्वा० प० से०) । क्वुन् (उ० २.३२) । ‘कुलकं तु पटोले स्यात्संबद्धश्लोकसंहतौ । पुंसि वल्मीककाकेन्दुकुलश्रेष्ठेषु कथ्यते (इति मेदिनी) । ‘कुलिकः' इति पाठे कुलमधीनत्वेनास्यास्ति । ठन् (५.२.११५) । ‘कुलिको नागभेदे स्याद्दुभेदे कुलसत्तमे' (इति मेदिनी) ॥