श्रेणिः

सुधाव्याख्या

- समिति । श्रयति, श्रीयते, वा । ‘श्रिञ् सेवायाम्' (भ्वा० उ० से०) । ‘वहिश्रिश्रुयु-' (उ० ४.५१) इति निः । ‘श्रेणिः स्त्रीपुंसयोः पङ्कौ समानशिल्पिसंहतौ' (इति मेदिनी) ॥