मालिकः

सुधाव्याख्या

- मालास्यास्ति । ‘व्रीह्यादिभ्यश्च' (५.२.११६) इति ठन् । यद्वा माला शिल्पमस्य । ‘शिल्पम्' (४.४.५५) इति ठन् । ‘मालिका सप्तलापुत्री ग्रीवालंकरणेऽपि च । पुष्पमाल्ये नदीभेदे पक्षिभेदे च मालिकः' (इति मेदिनी ) ॥