शिल्पी

सुधाव्याख्या

- शिल्पमस्यास्ति । ‘अत-' (५.२.११५) इतीनिः । ‘शिल्पी तु वाच्यवत्कारौ स्त्रियां कोलदलौषधौ' (इति मेदिनी ) ॥ ‘तक्षा च तन्तुवायश्च नापितो रजकस्तथा । पञ्चमश्चर्मकारश्च कारवः शिल्पिनो मताः’ ॥