नाडी

सुधाव्याख्या

नेति । नलत्यनेन । ‘णल गन्धे (भ्वा० प० से०) । ‘हलश्च’ (३.३.१२१) इति घञ् । नालयति । अच् (३.१.१३४) । डलयोरेकत्वम् । गौरादिः (४.१.४१) । ‘नाडी कुहनचर्यायां घटिकागण्डदूर्वयोः । नाले गुणान्तरे स्नायौ’ इति हैमः ॥ ‘नालं काण्डे मृणाले च नाली शाककलम्बके’ इति च (हैमः) ॥