काण्डः

सुधाव्याख्या

कणति । ‘कण शब्दे’ (भ्वा० प० से०) । ‘ञमन्ताड्डः’ (उ० १.११४) । बाहुलकाद्दीर्घः । काण्यते वा । ‘काण्डोनालेऽधमे वर्गे द्रुस्कन्धेऽवसरे शरे । सह श्लाघाम्बुषु स्तम्बे' इति हैमः ॥