कडङ्गरः

सुधाव्याख्या

केति । गृणाति ‘गृ शब्दे' (क्र्या० प० से०) । गिरति । ‘गॄ निगरणे’ (तु० प० से०) वा । अच् (३.१.१३४) । कडस्य गरः । ‘कडंगर-' (५.१.६९) इति निर्देशान्मुक् । यद्वा कडति । ‘कड मदे’ (भ्वा० प० से०) । क्विप् (३.२.१७८) । कड् च तदङ्गं च । कडङ्गं राति । ‘रा दाने’ (अ० प० अ०) । कः (३.२.३) । ‘कडङ्कर’ इति हरदत्तपाठे कृञ् धातुः ॥