भङ्गा

सुधाव्याख्या

भज्यते । अनया वा । ‘भञ्जो आमर्दने’ (रु० प० से०) । ‘अकर्तरि च’ (३.३.१९) इति ‘हलश्च’ (३.३.१२१) इति वा घञ् । ‘तरङ्गभेदयोर्भङ्गो भङ्गा शस्यशणाह्वये' इति रुद्रः ॥