क्षुमा

सुधाव्याख्या

क्षौति, क्षूयते वा । ‘टुक्षु शब्दे’ (अ० प० अ०) । बाहुलकान् मक् । ‘अर्तिस्तुसुहुसृ-’ (उ० १.१४०) इति मन् वा । संज्ञापूर्वकत्वान्न गुणः । क्षुवते इति मुकुटस्य प्रमादः । क्षौतेरादादिकत्वात् । ‘क्षुमातसीनीलिकयोः’ इति विश्वः ॥