मातुलानी

सुधाव्याख्या

मेति । मायास्तुला । मातुलामानयति । ‘अन प्राणने’ (अ० प० से०) गतौ वा । ‘कर्मण्यण्’ (३.२.१) । ङीष् (४.१.१४) । मातुलस्य धत्तूरस्य स्त्रीव वा । ‘मातुलोपाध्याययोषानुकौ’ (वा० ४.१.४९) ॥