उमा

सुधाव्याख्या

उं शिवं माति, मिमीते, वा । ‘मा' (अ० प० अ०) । ‘माङ् माने (जु० आ० अ०) । ‘आतोऽनुप-’ (३. २.३) इति कः । अवते, ऊयते, वा । ‘ऊङ् शब्दे' (भ्वा० आ० अ०) । ‘विभाषा तिलमाषोमा-’ (५.२.४) इति निपातनान्मक् इति वा । ‘उमातसी हैमवतीहरिद्राकीर्तिकान्तिषु' – (इति मेदिनी) ॥