चक्षुष्या

सुधाव्याख्या

चेति । चक्षुषे हिता । ‘शरीरावयवाद्यत्’ (५.१.६) । ‘चक्षुष्यः केतके पुण्डरीकसंज्ञकपादपे । कुलत्थिकासुभगयोः स्त्रियामक्षिहितेऽन्यवत्’ (इति मेदिनी) ॥