कुलाली

सुधाव्याख्या

कुलमलति । ‘अल भूषणादौ’ (भ्वा० प० से०) ।-‘कर्मण्यण्’ (३.२.१) । ङीप् (४.१.१५) । ‘चक्षुष्या कुम्भकारी च कुलाली च कुलत्थिका' इति रत्नकोषः ॥