कलायः

सुधाव्याख्या

केति । कलमयते ‘अय गतौ’ (भ्वा० आ० से०) । अण् (३.२.१) ।-कं वातं लाति । ‘आतः-’ (३.२.३) इति कः । ‘आतः-’ (७.३.३३) इति युक्-इति मुकुटः । तन्न । ञिति णिति परे विहितस्य युकः के अप्रसङ्गात् ॥