सतीनकः

सुधाव्याख्या

सति जीवे इनः प्रभुः । ‘संज्ञायाम् (२.१.४४) इति समासः । ‘हलदन्तात् (६.३.९) इत्यलुक् । सतीनं वायुं करोति । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ।-प्रज्ञाद्यणि (५.४.३८) ‘सातीनकः’ अपि–इति माधवी ॥