कोद्रवः

सुधाव्याख्या

कौति । ‘कु शब्दे’ (अ० प० अ०) । कवते । ‘कुङ् शब्दे (भ्वा० आ० अ०) । विच् (३.२.७२) । द्रवति । ‘द्रु गतौ' (भ्वा० प० अ०) । अच् (३.१.१३४) । कौश्चासौ द्रवश्च । केन वायुना द्रवति वा । पृषोदरादिः (६.३.१०९) ॥


प्रक्रिया

धातुः -


कुङ् शब्दे
कु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कु + विच् - अवे यजः 3.2.72
को + विच् - सार्वधातुकार्धधातुकयोः 7.3.84
को + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
को - वेरपृक्तस्य 6.1.67
द्रु गतौ
द्रु + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
द्रु + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
द्रो + अ - सार्वधातुकार्धधातुकयोः 7.3.84
द्रव् + अ - एचोऽयवायावः 6.1.78
को + सु + द्रव + सु - कर्मधारयः ।
कोद्रव - सुपो धातुप्रातिपदिकयोः 2.4.71
कोद्रव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कोद्रव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोद्रव + रु - ससजुषो रुः 8.2.66
कोद्रव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कोद्रवः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D