सीरः

सुधाव्याख्या

सिनोति, सीयते, वा । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । ‘सूसिमिचीनां दीर्घश्च’ (उ० २.२५) इति क्रन् दीर्घत्वं च । ‘हलतिग्मकरौ सीरौ’ इति दन्त्यादौ रभसः । ‘सीरः स्यादंशुमालिनि । लाङ्गले’ इति हैमः ॥