गोदारणम्

सुधाव्याख्या

गां भूमिं दारयति । ल्युट् (३.३.११३) । गौभूमिर्दार्यतेऽनेन । करणे ल्युट् (३.३.११७) । नन्द्यादि (३.१.१३३) ल्युर्वा मुकुटः । तन्न । ल्योः कर्तरि विधानात्करणेऽसम्भवात् ॥