ईशा

सुधाव्याख्या

ईति । ईष्टे ‘ईश ऐश्वर्ये' (अ० आ० से०) । ‘इगुपध-' (३.१.१३५) इति कः । ‘प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके’ इति तालव्यान्ते रुद्ररभसौ । ‘ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके’ इति शान्ते विश्वः । ईषते । ‘ईष गत्यादौ’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५), उभयत्र करणे ‘गुरोश्च’ (३.३.१०३) इत्यो वा । ‘ईषा पेषी मञ्जूषा' इति मूर्धन्यान्ते चन्द्रगोमी ॥