सीता

सुधाव्याख्या

सीति । सीयते । ‘षिञ् बन्धने’ (स्वा० उ० अ०) । क्तः (३.२.१०२) । पृषोदरादिः (६.३.१०९) । -स्यति भुवम् । ‘षोऽन्तकर्मणि’ (दि० प० अ०) । (बाहुलकात्) क्तः ‘घुमास्था-’ (६.४.६६) इतीत्वम्-मुकुटः । तन्न । ‘द्यतिस्यतिमास्था-’ (७.४.४०) इति विशेषविहितेनेत्वेन बाधात् । ‘सीता लाङ्गलरेखा स्याद्वयोमगङ्गा च जानकी’ इति दन्त्यादौ रभसः । ‘सीता जनकजागङ्गाभेदयोर्हलपद्धतौ' इति दन्त्यादौ हैमः । शेते स्म । ‘शीङ् स्वप्ने’ (अ० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । ‘शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशाननरिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः’ इति तालव्यादौ धरणिः ॥