भिन्दिपालः

सुधाव्याख्या

भीति । भिन्दति । 'भिदि अवयवे’ (भ्वा० प० से०) । इन् (उ० ४.१.१८) । भिन्दिर्द्वादशतालं तु दशकुन्तोऽभिधीयते’ इति भरतः । तदवच्छिन्नः कालोऽपि भिन्दिः । भिन्दिं पालयति । अण् (३.२.१) ॥


प्रक्रिया

धातुः -


भिदिँ अवयवे
भिद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिन्द् - इदितो नुम् धातोः 7.1.58
भिन्द् + इन् – सर्वधातुभ्य इन् (४.११८) । उणादिसूत्रम् ।
भिन्द् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भिन्दि + अम् + पाल् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
भिन्दि + पाल् + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
भिन्दि + पाल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भिन्दिपाल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भिन्दिपाल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिन्दिपाल + रु - ससजुषो रुः 8.2.66
भिन्दिपाल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भिन्दिपालः - खरवसानयोर्विसर्जनीयः 8.3.15