द्रुघणः

सुधाव्याख्या

द्र्विति । द्रर्वृक्षो हन्यतेऽनेन । 'करणेऽयोविद्रुषु’ (३.३.८२) इत्यप्, घनादेशश्च । ‘पूर्वपदात्-’ (८.४.३) इति णत्वम् । 'द्रुघणो मुद्रेद्गरेपि स्याद्द्रुहिणे च परश्वधे' इति विश्वमेदिन्यौ ॥ केचित्तु-क्षुभ्नादित्वात् (८.४.३९) न (णत्वम्) 'द्रुधनः'-इत्याहुः ॥