करवालिका

सुधाव्याख्या

करं पालयति । ‘पाल रक्षणे’ (चु० प० से०) । अण् (३.२.१) । ङीप् (४.१.१५) । कन् (ज्ञापि० ५.४.५) । ‘कारवालिका इति पाठे तु करं वलते । ‘वल हिंसादानयोः’ (भ्वा० आ० से०) । अण् (३.२.१) । करेण वाल्यते वा । णिजन्तात् ‘अच इः’ (उ० ४.१३९) । कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


पालँ रक्षणे
पाल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर + अम् + पाल् + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
कर + पाल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करपाल + ङीप् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
करपाल + ई - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करपाल् + ई - यस्येति च 6.4.148
करपाली + कन् न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
करपाली + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
करपालिक - केऽणः 7.4.13
करपालिक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
करपालिक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
करपालिका - अकः सवर्णे दीर्घः 6.1.101
करपालिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
करपालिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
करपालिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68