ईली

सुधाव्याख्या

स्येति । ईर्ते । ईर्यते वा । ‘ईर गतौ’ (अ० आ० से०) । ‘इगुपधात् कित्’ (उ० ४.१२९) इति इन् । 'कृदिकारात्' (ग० ४.१.४५) इति ङीष् वा । कपिलिकादिः (वा० ८.२.१८) ईड्यते वा । ‘ईड स्तुतौ' (अ० आ० से०) डलयोरेकत्वम् ।- ‘इगुपधात्किः'-इतिं मुकुटस्त्वपाणिनीयः । ‘इगुपधात् कित्’ इति सूत्रपाठात् । तत्रेनोऽनुवर्तनात् । (‘इलि’ इति) ह्रस्वादिपाठे तु ‘इल’ गतौ क्षेपे च' (तु० प० चु० से०) इति धातुर्बोध्यः ॥