शृङ्खला

सुधाव्याख्या

अथेति । शृङ्गं प्राधान्यं खलति । ‘खल सञ्चलने, सञ्चये च’ (भ्वा० प० से०) । अन्तर्भावितण्यर्थः । अच् (३.१.१३४) । यद्वा शृङ्गात्प्राधान्यात् खलत्यनेन । ‘पुंसि’ (३.३.११८) इति घः । भिदाद्यङ् (३.३.१०४) वा । पृषोदरादिः (६.३.१०९) । ‘शुङ्खला पुंस्कटीकाञ्च्यां लोहरज्जौ च बन्धने’ (इति हैमः) । (शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि निगडे त्रिषु’ इति मेदिनी) ॥


प्रक्रिया