निगडः

सुधाव्याख्या

निर्गतो गडः सेचनमस्मात् कठिनत्वात् । निगलति वा । ‘गल अदने’ (भ्वा० प० से०) । अच् (३.१.१३४) डलयोरेकत्वम् ॥


प्रक्रिया

धातुः -


नि + गड + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
निगड - सुपो धातुप्रातिपदिकयोः 2.4.71
निगड + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निगड + रु - ससजुषो रुः 8.2.66
निगड + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निगडः - खरवसानयोर्विसर्जनीयः 8.3.15