सृणिः

सुधाव्याख्या

सरति अन्तर्गच्छति । अनया वा । ‘सृ गतौ’ (भ्वा० प० अ०) । ‘सुवृषिभ्यां कित्’ (उ० ४.४९) इति निः । तालव्योष्मादिरपि । शृणाति । ‘शॄ हिंसायाम्’ (क्र्या० प० से०) । शृणिपृष्णिपार्ष्णि-' (उ० ४.५२) इति साधुः‘शृणिरङ्कुशवाची च काशश्च तृणवाचकः’ इति शभेदः ॥ ‘आरक्षमग्नमवमत्य सृणिं शिताग्रम्’ इति तु माघस्य प्रमादः । सृणेः स्त्रीत्वात् ।


प्रक्रिया

धातुः -


सृ गतौ
सृ + नि - सृवृषिभ्यां कित् (४.४९) । वार्तिकम् ।
सृणि - ऋवर्णान्नस्य णत्वं वाच्यम् (8.4.1) । वार्तिकम् ।
सृणि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सृणि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सृणि + रु - ससजुषो रुः 8.2.66
सृणि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सृणिः - खरवसानयोर्विसर्जनीयः 8.3.15