अन्दुकः

सुधाव्याख्या

अन्द्यतेऽनेन । ‘अदि बन्धने’ (भ्वा० आ० से०) । ‘अन्दूदृम्भू-’ (उ० १.९३) इति कूः । स्वार्थे कन् (ज्ञापि० ५.४.५) । ‘अन्दूः स्त्रियां स्यान्निगडे प्रभेदे भूषणस्य च' (इति मेदिनी) । ‘स्वार्थिकाः प्रकृतितो लिङ्ग वचनान्यतिवर्तन्तेऽपि’ इति पुंस्त्वम् । यद्वा विनयादित्वात् (५.४.३४) ठक् । 'इसुस्-’ (७.३.५१) इति कादेशः । ‘केऽणः’ (७.४.१३) इति ह्रस्वः ॥


प्रक्रिया

धातुः -


अदिँ बन्धने
अद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्द् - इदितो नुम् धातोः 7.1.58
अन्द् + कू - अन्दूदृम्भूजम्बूकफेलूकर्कन्धूदिधिषूः (१.९३) । उणादिसूत्रम् ।
अन्द् + ऊ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अन्दू + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
अन्दू + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अन्दुक - केऽणः 7.4.13
अन्दुक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अन्दुक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्दुक + रु - ससजुषो रुः 8.2.66
अन्दुक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अन्दुकः - खरवसानयोर्विसर्जनीयः 8.3.15