अषडक्षीणः

सुधाव्याख्या

अषेति । अविद्यमानानि षड् अक्षीण्यत्र । ‘अषडक्षाशितंग्वलंकर्मा-’ (५.४.७) इति खः स्वार्थे ॥


प्रक्रिया

धातुः -


षड् + जस् + अक्षिन् + जस् - अनेकमन्यपदार्थे 2.2.24
षडक्षिन् - सुपो धातुप्रातिपदिकयोः 2.4.71
नञ् + षडक्षिन् - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
न + षडक्षिन् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + षडक्षिन् - नलोपो नञः 6.3.73
अषडक्षिन् + षच् - बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् 5.4.113
अषडक्ष् + अ - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9,
अषडक्ष + ख - अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः 5.4.7
अषडक्ष + ईन् + अ - आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ 7.1.2
अषडक्ष् + ईन - यस्येति च 6.4.148
अषडक्षीण - रषाभ्यां नो णः समानपदे 8.4.1
अषडक्षीण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अषडक्षीण + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अषडक्षीण + रु - ससजुषो रुः 8.2.66
अषडक्षीण + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अषडक्षीणः - खरवसानयोर्विसर्जनीयः 8.3.15