नि:शलाकः

सुधाव्याख्या

‘शलाका शारिका मदनशारिका’ इति पर्यायः । ‘शल्यं श्वाविच्छलाका स्याच्छवो मदनशारिका’ इति तालव्यादौ रभसः । निर्गता शलाकाप्यस्मात् । शलाकाया निर्गतो वा ॥


प्रक्रिया

धातुः -


निर् + शलाका + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
निर् + शलाका - सुपो धातुप्रातिपदिकयोः 2.4.71
निः + शलाका - खरवसानयोर्विसर्जनीयः 8.3.15
निःशलाका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निःशलाका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निःशलाका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68