विविक्तः

सुधाव्याख्या

वीति । विविञ्चन्ति जना अत्र । ‘विचर् पृथग्भावे’ (रु० उ० अ०) । ध्रौव्यार्थत्वाद्गत्यर्थत्वाद्वा ‘क्तोऽधिकरणे च-’ (३.४.७६) इति क्तः । ‘विविक्तं त्रिष्वसम्पृक्ते रहःपूतविवेकिषु (वसुनन्दे ना)’ इति मेदिनी ॥