छन्नः

सुधाव्याख्या

छद्यते स्म । ‘छद अपवारणे’ (चु० उ० से०) । क्तः (३.२.१०२) । आगमशास्त्रस्यानित्यत्वान्नेट् । ‘छन्नं त रहसि क्लीबं छादिते वाच्यलिङ्गकम्’ (इति मेदिनी) । मुकुटस्तु-‘वा दान्तशान्त-’ (७.२.२७) इति निपातनात् इत्याह । तन्न । णिजन्तस्य निपातनात् ॥