आस्कन्दनम्

सुधाव्याख्या

‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । भावे ल्युट् (३.३.११५) । 'आस्कन्दनं तिरस्कारे रणे संशोषणेऽपि च' इति विश्वः ॥


प्रक्रिया

धातुः -


स्कन्दिँर् गतिशोषणयोः
स्कन्द् – इर इत्संज्ञा वाच्या (1.3.7) । वार्तिकम् ।
आङ् + स्कन्द् + ल्युट् - ल्युट् च 3.3.115
आ + स्कन्द् + यु - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
आ + स्कन्द् + अन - युवोरनाकौ 7.1.1
आस्कन्दन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
आस्कन्दन + अम् - अतोऽम् 7.1.24
आस्कन्दनम् - अमि पूर्वः 6.1.107