समरः

सुधाव्याख्या

समरणम् । ‘ऋ गतौ’ (क्र्या० प० से०) । घः (३.३.११८) 'ऋदोरप्' (३.३.५७) वा । यत्तु ऋच्छन्त्यत्र । 'ॠ गतौ’ (भ्वा० प० अ०) ‘ऋदोरप्’ (३.३.५७) इति मुकुटेनोक्तम् । तन्न ऋषन्तादपो विधानात् ॥