अनीकः

सुधाव्याख्या

अननम् । ‘अन गतौ’ ‘प्राणने’ (अ० प० से०) वा । ‘अनीकादकश्च' इति साधुः । न नयनम् । ‘णीञ् प्रापणे' (भ्वा० उ० अ०) बाहुलकात्कन् । नञ्समासः (२.२.६) । 'अनीकोऽस्त्री रणे सैन्ये' इति मेदिनी ॥