रणः

सुधाव्याख्या

रणनम् । ‘रण शब्दे’ (भ्वा० प० से०) । ‘वशिरण्योश्च' (वा० ३.३.५८) इत्यप् । ‘रणः कोणे क्वणे पुंसि समरे पुंनपुंसकम्’ (इति मेदिनी) ॥