स्कन्धः

सुधाव्याख्या

स्केति । स्कद्यते । ‘स्कन्दिर् गतिशोषणयोः’ (भ्वा० प० अ०) । घञ् (३.३.१९) । ‘स्कन्देश्च स्वाङ्गे (उ० ४.२०७) इति बाहुलकादनसुन्यपि धः । ‘स्कन्धः प्रकाण्डे कार्योऽसे विज्ञानादिषु पञ्चसु । नृपे समूहे व्यूहे च’ इति हैमः ॥