उरः

सुधाव्याख्या

उरविति । इयर्ति । ‘ऋ गतौ’ (जु० प० अ०) । ‘अर्तेरुच्च’ (उ० ४.१९५) इत्यसुन्, उरादेशः किच्च । ‘उरो वक्षसि मुख्ये स्यात्’ इति हैमः ॥