वत्सम्

सुधाव्याख्या

वदति सामर्थ्यम् । ‘वद व्यक्तायां वाचि’ (भ्वा० प० से०) । ‘वद स्थैर्ये’ (भ्वा० प० से०) वा । ‘वृतॄवदिहनि-’ (उ० ३.६२) इति सः । ‘वत्सः पुत्रादिवर्षयोः । तर्णके नोरसि क्लीबम्’ इति मेदिनी । ‘पुत्रादौ तर्णके वर्षे वत्सो वत्सं तु वक्षसि’ इति रुद्रः ॥