मलः

सुधाव्याख्या

मलते । ‘मल धारणे’ (भ्वा० आ० से०) । अच् (३.१.१३४) । मलोऽस्त्री पापविट्किट्टे कृपणे त्वभिधेयवत्’ (इति मेदिनी) । ‘वसा शुक्रमसृग्मज्जा कर्णविड्मूत्रविड्नखाः । श्लेष्माश्रुदूषिकाः स्वेदो द्वादशैते नृणां मलाः’ ॥