सिरा

सुधाव्याख्या

सिनोति । ‘षिञ् बन्धने’ (स्वा० उ० अ०) ‘बहुलमन्यत्रापि’ इति रक् । तालव्यादिरपि । ‘शिरो ना पिप्पलीमूले स्याद्धमन्यां च योषिति’ इति तालव्यादौ रभसात् । शिनोति । ‘शिञ् निशाने’ (स्वा० उ० अ०) । ‘बहुलमन्यत्रापि’ इति रक् ॥