तिलकम्

सुधाव्याख्या

तीति । तेलति । ‘तिल गतौ’ (भ्वा० प० से०) । तिलति वा । ‘तिल स्नेहने’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । स्वार्थे कन् (ज्ञापि० ५.४.५) । क्वुन् (उ० २.३२) वा । ‘तिलको द्रुमरोगाश्वभेदेषु तिलकालके । क्लीबं सौवर्चलक्लोम्नोर्न स्त्रियां तु विशेषके’ इति विश्वमेदिन्यौ ॥