कर्पूरः

सुधाव्याख्या

अथेति । किरति । ‘कॄ विक्षेपे’ (तु० प० से०) कृणाति । ‘कॄञ् हिंसायाम्’ (क्र्या० उ० से०) वा । करोति । ‘डुकृञ् करणे’ (त० उ० अ०) वा । विच् (३.२.७) । पूर्यते । ‘पूरी आप्यायने’ (दि० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । कर् चासौ पूरश्च ।–कल्पते । ‘कृपू सामर्थ्ये’ (भ्वा० आ० से०) । खर्जादित्वात् (उ० ४.९०) ऊरः इति स्वामिमुकुटौ । तच्चिन्त्यम् । ‘कृपो रो लः’ (८.२.१८) इति लत्वस्य दुर्वारत्वात् । बाहुलकात्तदभावो वा बोध्यः ॥


प्रक्रिया

धातुः -


कॄ विक्षेपे
कॄ + विच् - समि ख्यः 3.2.7
कर् + विच् - सार्वधातुकार्धधातुकयोः 7.3.84
कर् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9, वेरपृक्तस्य 6.1.67
पूरीँ आप्यायने
पूर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पूर् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
पूर् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
कर् + सु + पूर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कर् + पूर - सुपो धातुप्रातिपदिकयोः 2.4.71
कर्पूर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कर्पूर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्पूर + रु - ससजुषो रुः 8.2.66
कर्पूर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कर्पूरः - खरवसानयोर्विसर्जनीयः 8.3.15