सिताभ्रः

सुधाव्याख्या

सितं शैत्यं बन्धनं वा चन्द्रं वा अभ्रति । ‘अभ्र गतौ’ (भ्वा० प० से०) । ‘कर्मण्यण्’ (३.२.१) । सितं शौक्ल्यमभ्रयति स्वसम्बद्धम्, इति वा । शुक्लत्वात् सिताभ्रमिव वा । ‘सिताभः’ इति वा पाठः । सिता आभा यस्य ॥