घनसारः

सुधाव्याख्या

घनो दृढः सारोऽस्य । ‘घनः सान्द्रे दृढे दार्ढ्ये इति विश्वः । घनस्य सार इव वा । शीतत्वात् शिताभ्राकारत्वाच्च । 'घनसारस्तु कर्पूरे दक्षिणावर्तपारदे’ इति हैमः ॥